(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.182. अध्यायः 182
Mahabharata - Drona Parva - Chapter Topics
श्रीकृष्णेनार्जुनम्प्रति जरासन्धादिपराक्रमकथनपूर्वकं तेषां दुर्जयतया पूर्वमेव स्वेनोपायैर्हननकथनम्॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

अर्जुन उवाच। 7-182-0x(4745)(53405)
कथमस्मद्धितार्थं ते कैश्च योगैर्जनार्दन।
जरासन्धप्रभृतयो घातिताः पृथिवीश्वराः॥ 7-182-1(53406)
वासुदेव उवाच। 7-182-2x(4746)
जरासन्धश्चेदिराजो नैषादिश्च महाबलः।
यदि स्युर्न हताः पूर्वमिदानीं स्युर्भयङ्कराः॥ 7-182-2(53407)
दुर्योधनस्तानवश्यं वृणुयाद्रथसत्तमान्।
तेऽस्मासु नित्यविद्विष्टाः संश्रयेयुश्च कौरवान्॥ 7-182-3(53408)
ते हि वीरा महेष्वासाः कृतास्त्रा दृढयोधिनः।
धार्तराष्ट्रचमूं कृत्स्नां रक्षेयुरमरा इव॥ 7-182-4(53409)
सूतपुत्रो जरासन्धश्चेदिराजो निषादजः।
सुयोधनं समाश्रित्य तपेरन्पृथिवीमिमाम्॥ 7-182-5(53410)
योगैरभिहता यैस्ते तन्मे शृणु धनञ्जय।
अजय्या हि विना योगैर्मृधे ते दैवतैरपि॥ 7-182-6(53411)
एकैको हि पृथक् तेषां समस्तां रिपुवाहिनीम्।
योधयेत्समरे पार्थ लोकपालाभिरक्षिताम्॥ 7-182-7(53412)
जरासन्धो हि रुषितो रौहिणेयप्रधर्षितः।
अस्मद्वधार्थं चिक्षेप गदां वै सर्वघातिनीम्॥ 7-182-8(53413)
सीमन्तमिव कुर्वाणा नभसः पावकप्रभा।
अदृश्यतापतन्ती सा शक्रुमुक्ता यथाऽशनिः॥ 7-182-9(53414)
तामापतन्तीं दृष्ट्वैव गदां रोहिणिनन्दनः।
प्रतिघातार्थमस्त्रं वै स्थूणाकर्णमवासृजत्॥ 7-182-10(53415)
अस्त्रवेगप्रतिहता सा गदा प्रापतद्भुवि।
दारयन्ती धरां देवीं कम्पयन्तीव पर्वतान्॥ 7-182-11(53416)
तत्र सा राक्षसी घोरा जरानाम्नी सुविक्रमा।
सन्दधे सा हि सञ्जातं जरासन्धमरिन्दमम्॥ 7-182-12(53417)
द्वाभ्यां जातो हि मातृभ्यामर्धदेहः पृथक्पृथक्।
जरया सन्धितो यस्माज्जरासन्धस्ततोऽभवत्॥ 7-182-13(53418)
सा तु भूमिं गता पार्थ हता ससुतबान्दवा।
गदया तेन चास्त्रेण स्थूणाकर्णेन राक्षसी॥ 7-182-14(53419)
विनाभूतः स गदया जरासन्धो महामृधे।
निहतो भीमसेनेन पश्यतस्ते धनञ्जय॥ 7-182-15(53420)
यदि हि स्याद्गदापाणिर्जरासन्धः प्रतापवान्।
सेन्द्रा देवा न तं हन्तुं रणे शक्ता नरोत्तम॥ 7-182-16(53421)
त्वद्धितार्थं च नैषादिरङ्गुष्ठेन वियोजितः।
द्रोणेनाचार्यकं कृत्वा छद्मना सत्यविक्रमः॥ 7-182-17(53422)
स तु बद्धाङ्गुलित्राणो नैषादिर्दृढविक्रमः।
अतिमानी वचनरो बभौ राम इवापरः॥ 7-182-18(53423)
एकलव्यं हि साङ्गुष्ठमशक्ता देवदानवाः।
सराक्षसोरगाः पार्थ विजेतुं युधि कर्हिचित्॥ 7-182-19(53424)
किमु मानुषमात्रेण शक्यः स्यात्प्रतिवीक्षितुम्।
दृढमुष्टिः कृती नित्यमस्यमानो दिवानिशम्॥ 7-182-20(53425)
त्वद्धितार्थं तु स मया हतः सङ्ग्राममूर्धनि॥ 7-182-21(53426)
चेदिराजश्च विक्रान्तः प्रत्यक्षं निहतस्तव।
स चाप्यशक्यः सङ्ग्रामे जेतुं सर्वसुरासुरैः॥ 7-182-22(53427)
वधार्थं तस्य जातोऽहमन्येषां च सुरद्विषाम्।
त्वत्सहायो नरव्याघ्र लोकानां हितकाम्यया॥ 7-182-23(53428)
हिडिम्बबककिर्मीरा भीमसेनेन पातिताः।
रावणेन समप्राणा ब्रह्मयज्ञविनाशनाः॥ 7-182-24(53429)
हतस्तथैव मायावी हैडिम्बेनाप्यलायुधः।
हैडिम्बश्चाप्युपायेन शक्त्या कर्णेन घातितः॥ 7-182-25(53430)
यदि ह्येनं नाहनिष्यत्कर्णः शक्त्या महामृधे।
मयां वध्योऽभविष्यत्स भैमसेनिर्घटोत्कचः।
मया न निहतः पूर्वमेष युष्मत्प्रियेप्सया॥ 7-182-26(53431)
एष हि ब्राह्मणद्वेषी यज्ञद्वेषी च राक्षसः।
धर्मस्य लोप्ता पापात्मा तस्मादेव निपातितः।
व्यंसिता चाप्यूपायेन शक्रदत्ता मयाऽनघ॥ 7-182-27(53432)
येहि धर्मस्य लोप्तारो वध्यास्ते मम पाण्डव।
धर्मसंस्थापनार्थं हि प्रतिज्ञैषा ममाव्यया॥ 7-182-28(53433)
ब्रह्म सत्यं दमः शौचं धर्मो हीः श्रीर्धृतिः क्षमा।
यत्र तत्र रमे नित्यमहं सत्येन ते शपे॥ 7-182-29(53434)
न विषादस्त्वया कार्यः कर्णं वैकर्तनं प्रति।
उपदेक्ष्याम्युपायं ते येन तं प्रसहिष्यसि॥ 7-182-30(53435)
सुयोधनं चापि रणे हनिष्यति वृकोदरः।
तस्यापि च वधोपायं वक्ष्यामि तव पाण्डव॥ 7-182-31(53436)
वर्धते तुमुलस्त्वेष शब्दः पचरमूं प्रति।
विद्रवन्ति च सैन्यानि त्वदीयानि दिशो दश॥ 7-182-32(53437)
लब्धलक्ष्या हि कौरव्या विधमन्ति चमूं तव।
दहत्येष च वः सैन्यं द्रोणः प्रहरतां वरः॥ ॥ 7-182-33(53438)

इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे द्व्यशीत्यधिकथततमोऽध्यायः॥ 182 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-182-1 योगैरुपायैः॥ 5-182- रौक्मिणेयप्रधर्षितः इति क.ङ.पाठः॥ 5-182- व्यंसिता व्यर्थीकृता शक्तिरिति शेषः॥ 5-182-द्व्यशीत्यधिकशततमोऽध्यायः॥ 182 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.